अवे॑ष्टा दन्द॒शूकाः॒ प्राची॒मारो॑ह गाय॒त्री त्वा॑वतु रथन्त॒रꣳ साम॑ त्रि॒वृत् स्तोमो॑ वस॒न्तऽऋ॒तुर्ब्रह्म॒ द्रवि॑णम् ॥१०॥
अवे॑ष्टा॒ इत्यव॑ऽइष्टाः। द॒न्द॒शूकाः॑। प्राची॑म्। आ। रो॒ह॒। गा॒य॒त्री। त्वा॒। अ॒व॒तु॒। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। साम॑। त्रि॒वृदिति॑ त्रि॒ऽवृत्। स्तोमः॑। व॒स॒न्तः। ऋ॒तुः। ब्रह्म॑। द्रवि॑णम् ॥१०॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करके किस-किस को प्राप्त हों, यह विषय अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं कृत्वा किं किं प्राप्तव्यमित्युपदिश्यते ॥
(अवेष्टाः) विरुद्धस्य सङ्गन्तारः (दन्दशूकाः) परस्मै दुःखप्रदानाय दंशनशीलाः (प्राचीम्) पूर्वा दिशम् (आ) (रोह) प्रसिद्धो भव (गायत्री) पठितं गायत्रीछन्दः (त्वा) त्वाम् (अवतु) प्राप्नोतु (रथन्तरम्) रथैस्तरन्ति येन तत् (साम) सामवेदः (त्रिवृत्) त्रिभिर्मनोवाक्शरीरबलानां बोधकारकः (स्तोमः) स्तूयमानः (वसन्तः) (ऋतुः) (ब्रह्म) वेदो जगदीश्वरो ब्रह्मवित्कुलं वा (द्रविणम्) विद्याद्रव्यम् ॥ अयं मन्त्रः (शत०५.४.१.१-३) व्याख्यातः ॥१०॥